Vishnu Sahasranama

About this text: The Vishnu Sahasranama is a sacred hymn of 1000 names of Lord Vishnu, found in the Anushasana Parva (Book 13) of the Mahabharata. Bhishma, lying on his bed of arrows after the Kurukshetra war, recites these names to Yudhishthira as the supreme means of liberation. The stotram is composed in 107 shlokas in Anushtup meter, traditionally attributed to Vyasa.

Bhishma declared: “By praising with these thousand names, a person ever-vigilant transcends all sorrow.”

Dhyana Shlokas

Meditation verses recited before the main stotram, invoking the form of Vishnu.

क्षीरोदन्वत्प्रदेशे शुचिमणिविलसत्सैकते मौक्तिकानां मालाक्लृप्तासनस्थः स्फटिकमणिनिभैर्मौक्तिकैर्मण्डिताङ्गः । शुभ्रैरभ्रैरदभ्रैरुपरिविरचितैर्मुक्तपीयूषवर्षैः रानन्दी नः पुनीयादरिनलिनगदाशङ्खपाणिर्मुकुन्दः ॥ १॥

kṣīrodanvatpradeśe śucimaṇivilasatsaikate mauktikānāṃ mālākḷptāsanasthaḥ sphaṭikamaṇinibhairmauktikairmaṇḍitāṅgaḥ | śubhrairabhrairadabhrairupariviracitairmuktapīyūṣavarṣaiḥ ānandī naḥ punīyādarinalinagadāśaṅkhapāṇirmukuṇdaḥ || 1 ||

In the region of the Milk Ocean, on a pure shore glistening with gems, seated on a throne made of pearl garlands, His body adorned with pearls resembling crystal gems, with abundant white clouds above showering streams of nectar — may that blissful Mukunda, holding lotus, mace, and conch, purify us.

भूः पादौ यस्य नाभिर्वियदसुरनिलश्चन्द्रसूर्यौ च नेत्रे कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः । अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः चित्रं रंरम्यते तं त्रिभुवनवपुषं विष्णुमीशं नमामि ॥ २॥

bhūḥ pādau yasya nābhirviyadasuranilascandrasūryau ca netre karṇāvāśāḥ śiro dyaurmukhamapi dahano yasya vāsteyamabdhiḥ | antaḥsthaṃ yasya viśvaṃ suranarakhaagagobhogigandarvadaityaiḥ citraṃ raṃramyate taṃ tribhuvanavapuṣaṃ viṣṇumīśaṃ namāmi || 2 ||

He whose feet are the earth, whose navel is space, whose breath is wind, whose eyes are the sun and moon, whose ears are the directions, whose head is heaven, whose mouth is fire, and whose ocean is the abdomen — within whom the entire universe of gods, men, birds, cattle, serpents, gandharvas, and demons delights in wondrous play — to that Vishnu, the Lord whose body is the three worlds, I bow.

ॐ नमो भगवते वासुदेवाय ॥

oṃ namo bhagavate vāsudevāya ||

Om, salutation to the Blessed Lord Vasudeva.

ॐ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं (योगिहृद्ध्यानगम्यं) वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ३॥

oṃ śāntākāraṃ bhujagaśayanaṃ padmanābhaṃ sureśaṃ viśvādhāraṃ gaganasadṛśaṃ meghavarṇaṃ śubhāṅgam | lakṣmīkāntaṃ kamalanayanam yogibhirdhyānagamyaṃ vande viṣṇuṃ bhavabhayaharaṃ sarvalokaikanātham || 3 ||

Of serene form, reclining on the serpent Shesha, with a lotus in His navel, Lord of the gods, the support of the universe, vast as the sky, dark as a cloud, with auspicious limbs, beloved of Lakshmi, lotus-eyed, attainable through meditation by yogis — I salute that Vishnu, the remover of the fear of worldly existence, the sole Lord of all worlds.

मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् । पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथम् ॥ ४॥

meghaśyāmaṃ pītakauśeyavāsaṃ śrīvatsāṅkaṃ kaustubhodbhāsitāṅgam | puṇyopetaṃ puṇḍarīkāyatākṣaṃ viṣṇuṃ vande sarvalokaikanātham || 4 ||

Dark as a rain cloud, clothed in yellow silk, bearing the Shrivatsa mark, His body radiant with the Kaustubha gem, endowed with all virtue, with eyes wide as a lotus — I salute Vishnu, the sole Lord of all worlds.

नमः समस्तभूतानामादिभूताय भूभृते । अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥ ५॥

namaḥ samastabhūtānāmādibhūtāya bhūbhṛte | anekarūparūpāya viṣṇave prabhaviṣṇave || 5 ||

Salutation to Him who is the first being of all beings, the upholder of the earth, who assumes countless forms — to Vishnu, the all-powerful.

सशङ्खचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् । सहारवक्षःस्थलकौस्तुभश्रियं (स्थलशोभिकौस्तुभं) नमामि विष्णुं शिरसा चतुर्भुजम् ॥ ६॥ छायायां पारिजातस्य हेमसिंहासनोपरि आसीनमम्बुदश्यामामायताक्षमलंकृतम् । चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कितवक्षसं रुक्मिणीसत्यभामाभ्यां सहितं कृष्णमाश्रये ॥ ७॥

sasaṅkhacakraṃ sakirīṭakuṇḍalaṃ sapītavastraṃ sarasīruhekṣaṇam | sahāravakṣaḥsthalakaustubhaśriyaṃ namāmi viṣṇuṃ śirasā caturbhujam || 6 || chāyāyāṃ pārijātasya hemasiṃhāsanopari āsīnamambudaśyāmāmāyatākṣamalaṃkṛtam | candrānanaṃ caturbāhuṃ śrīvatsāṅkitavakṣasaṃ rukmiṇīsatyabhāmābhyāṃ sahitaṃ kṛṣṇamāśraye || 7 ||

With conch and discus, with crown and earrings, clothed in yellow, with lotus-like eyes, with the beauty of the Kaustubha gem on His chest adorned with garlands — I bow my head to the four-armed Vishnu. In the shade of the Parijata tree, seated on a golden throne, dark as a cloud, wide-eyed and beautifully adorned, moon-faced, four-armed, with the Shrivatsa mark on His chest — I take refuge in Krishna, accompanied by Rukmini and Satyabhama.

Complete Stotram

The full text of all 107 shlokas for continuous reading and recitation.

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः । भूतकृद्भूतभृद्भावो भूतात्मा भूतभावनः ॥ १॥ पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ २॥ योगो योगविदां नेता प्रधानपुरुषेश्वरः । नारसिंहवपुः श्रीमान्केशवः पुरुषोत्तमः ॥ ३॥ सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः । सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ ४॥ स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ ५॥ अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ ६॥ अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम्॥ ७॥ ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ ८॥ ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान्॥ ९॥ सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ १०॥ अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः । वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ ११॥ वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः । अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ १२॥ रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः । अमृतः शाश्वतस्थाणुर्वरारोहो महातपाः ॥ १३॥ सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः । वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ १४॥ लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः । चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ १५॥ भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः । अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ १६॥ उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः । अतीन्द्रः सङ्ग्रहः सर्गो धृतात्मा नियमो यमः ॥ १७॥ वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः । अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ १८॥ महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः । अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ १९॥ महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः । अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ २०॥ मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः । हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ २१॥ अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः । अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ २२॥ गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः । निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ २३॥ अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः । सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ २४॥ आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः । अहः संवर्तको वह्निरनिलो धरणीधरः ॥ २५॥ सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः । सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ २६॥ असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः । सिद्धार्थः सिद्धसङ्कल्पः सिद्धिदः सिद्धिसाधनः ॥ २७॥ वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः । वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ २८॥ सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः । नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ २९॥ ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः । ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ३०॥ अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः । औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ३१॥ भूतभव्यभवन्नाथः पवनः पावनोऽनलः । कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ३२॥ युगादिकृद्युगावर्तो नैकमायो महाशनः । अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ३३॥ इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः । क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ३४॥ अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः । अपांनिधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ३५॥ स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः । वासुदेवो बृहद्भानुरादिदेवः पुरन्दरः ॥ ३६॥ अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः । अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ३७॥ पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् । महर्द्धिर्ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ३८॥ अतुलः शरभो भीमः समयज्ञो हविर्हरिः । सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ३९॥ विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः । महीधरो महाभागो वेगवानमिताशनः ॥ ४०॥ उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः । करणं कारणं कर्ता विकर्ता गहनो गुहः ॥ ४१॥ व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः । परर्द्धिः परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः ॥ ४२॥ रामो विरामो विरजो मार्गो नेयो नयोऽनयः । वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ४३॥ वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः । हिरण्यगर्भः शत्रुघ्नो व्यासो वायुरोधक्षजः ॥ ४४॥ ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ४५॥ विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् । अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ४६॥ अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः । नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ४७॥ यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः । सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ४८॥ सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् । मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ४९॥ स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ५०॥ धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् । अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ५१॥ गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः । आदिदेवो महादेवो देवेशो देवभृद्गुरुः ॥ ५२॥ उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीरभूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ५३॥ सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः । विनयो जयः सत्यसन्धो दाशार्हः सात्वताम्पतिः ॥ ५४॥ जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः । अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ५५॥ अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः । आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ५६॥ महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः । त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ ५७॥ महावराहो गोविन्दः सुषेणः कनकाङ्गदी । गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ५८॥ वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः । वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ५९॥ भगवान् भगहाऽऽनन्दी वनमाली हलायुधः । आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ६०॥ सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः । दिवस्पृक् सर्वदृग्व्यासो वाचस्पतिरयोनिजः ॥ ६१॥ त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् । संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ६२॥ शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः । गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ६३॥ अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतांवरः ॥ ६४॥ श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः श्रीमाँल्लोकत्रयाश्रयः ॥ ६५॥ स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । विजितात्माऽविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ६६॥ उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः । भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ६७॥ अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ६८॥ कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ६९॥ कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनञ्जयः ॥ ७०॥ ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ७१॥ महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ७२॥ स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ७३॥ मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ७४॥ सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः । शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ७५॥ भूतावासो वासुदेवः सर्वासुनिलयोऽनलः । दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ७६॥ विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्। अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ७७॥ एको नैकः सवः कः किं यत्तत्पदमनुत्तमम्। लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ७८॥ सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी । वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ७९॥ अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् । सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ८०॥ तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः । प्रग्रहो निग्रहो व्यग्रो नैकश‍ृङ्गो गदाग्रजः ॥ ८१॥ चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः । चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात्॥ ८२॥ समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः । दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ८३॥ शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः । इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ८४॥ उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः । अर्को वाजसनः श‍ृङ्गी जयन्तः सर्वविज्जयी ॥ ८५॥ सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः । महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ८६॥ कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः । अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ ८७॥ सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः । न्यग्रोधोऽदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ ८८॥ सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः । अमूर्तिरनघोऽचिन्त्यो भयकृद्भयनाशनः ॥ ८९॥ अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्। अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ ९०॥ भारभृत्कथितो योगी योगीशः सर्वकामदः । आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ ९१॥ धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः । अपराजितः सर्वसहो नियन्ताऽनियमोऽयमः ॥ ९२॥ सत्त्ववान्सात्त्विकः सत्यः सत्यधर्मपरायणः । अभिप्रायः प्रियार्होऽर्हः प्रियकृत्प्रीतिवर्धनः ॥ ९३॥ विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः । रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ ९४॥ अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः । अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्भुतः ॥ ९५॥ सनात्सनातनतमः कपिलः कपिरव्ययः । स्वस्तिदः स्वस्तिकृत्स्वस्ति स्वस्तिभुक्स्वस्तिदक्षिणः ॥ ९६॥ अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः । शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ९७॥ अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः । विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ ९८॥ उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः । वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ९९॥ अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः । चतुरश्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ १००॥ अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः । जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ १०१॥ आधारनिलयोऽधाता पुष्पहासः प्रजागरः । ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ १०२॥ प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः । तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ १०३॥ भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः । यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ १०४॥ यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग्यज्ञसाधनः । यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ १०५॥ आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः । देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ १०६॥ शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः । रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १०७॥

Shloka-by-Shloka Breakdown

Click any shloka to see the individual names and their meanings.

001

विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः ।

viśvaṃ viṣṇurvaṣaṭkāro bhūtabhavyabhavatprabhuḥ |

Names 1–9

Read →
002

पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।

pūtātmā paramātmā ca muktānāṃ paramā gatiḥ |

Names 10–17

Read →
003

योगो योगविदां नेता प्रधानपुरुषेश्वरः ।

yogo yogavidāṃ netā pradhānapuruṣeśvaraḥ |

Names 18–24

Read →
004

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः ।

sarvaḥ śarvaḥ śivaḥ sthāṇurbhūtādirnidhiravyayaḥ |

Names 25–36

Read →
005

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः ।

svayambhūḥ śambhurādityaḥ puṣkarākṣo mahāsvanaḥ |

Names 37–45

Read →
006

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।

aprameyo hṛṣīkeśaḥ padmanābho'maraprabhuḥ |

Names 46–55

Read →
007

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।

agrāhyaḥ śāśvataḥ kṛṣṇo lohitākṣaḥ pratardanaḥ |

Names 56–64

Read →
008

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।

īśānaḥ prāṇadaḥ prāṇo jyeṣṭhaḥ śreṣṭhaḥ prajāpatiḥ |

Names 65–74

Read →
009

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।

īśvaro vikramī dhanvī medhāvī vikramaḥ kramaḥ |

Names 75–85

Read →
010

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः ।

sureśaḥ śaraṇaṃ śarma viśvaretāḥ prajābhavaḥ |

Names 86–95

Read →
011

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः ।

ajaḥ sarveśvaraḥ siddhaḥ siddhiḥ sarvādiracyutaḥ |

Names 96–104

Read →
012

वसुर्वसुमनाः सत्यः समात्माऽसम्मितः समः ।

vasurvasumanāḥ satyaḥ samātmā'sammitaḥ samaḥ |

Names 105–114

Read →
013

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः ।

rudro bahuśirā babhrurviśvayoniḥ śuciśravāḥ |

Names 115–123

Read →
014

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।

sarvagaḥ sarvavidbhānurviṣvakseno janārdanaḥ |

Names 124–133

Read →
015

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः ।

lokādhyakṣaḥ surādhyakṣo dharmādhyakṣaḥ kṛtākṛtaḥ |

Names 134–141

Read →
016

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।

bhrājiṣṇurbhojanaṃ bhoktā sahiṣṇurjagadādijaḥ |

Names 142–151

Read →
017

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः ।

upendro vāmanaḥ prāṃśuramoghaḥ śucirūrjitaḥ |

Names 152–163

Read →
018

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।

vedyo vaidyaḥ sadāyogī vīrahā mādhavo madhuḥ |

Names 164–173

Read →
019

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।

mahābuddhirmahāvīryo mahāśaktirmahādyutiḥ |

Names 174–181

Read →
020

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।

maheṣvāso mahībhartā śrīnivāsaḥ satāṃ gatiḥ |

Names 182–189

Read →
021

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः ।

marīcirdamano haṃsaḥ suparṇo bhujagottamaḥ |

Names 190–198

Read →
022

अमृत्युः सर्वदृक् सिंहः सन्धाता सन्धिमान् स्थिरः ।

amṛtyuḥ sarvadṛk siṃhaḥ sandhātā sandhimān sthiraḥ |

Names 199–209

Read →
023

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः ।

gururgurutamo dhāma satyaḥ satyaparākramaḥ |

Names 210–219

Read →
024

अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।

agraṇīrgrāmaṇīḥ śrīmān nyāyo netā samīraṇaḥ |

Names 220–229

Read →
025

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः ।

āvartano nivṛttātmā saṃvṛtaḥ sampramardanaḥ |

Names 230–237

Read →
026

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।

suprasādaḥ prasannātmā viśvadhṛgviśvabhugvibhuḥ |

Names 238–248

Read →
027

असङ्ख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।

asaṅkhyeyo'prameyātmā viśiṣṭaḥ śiṣṭakṛcchuciḥ |

Names 249–257

Read →
028

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः ।

vṛṣāhī vṛṣabho viṣṇurvṛṣaparvā vṛṣodaraḥ |

Names 258–266

Read →
029

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।

subhujo durdharo vāgmī mahendro vasudo vasuḥ |

Names 267–276

Read →
030

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।

ojastejodyutidharaḥ prakāśātmā pratāpanaḥ |

Names 277–284

Read →
031

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।

amṛtāṃśūdbhavo bhānuḥ śaśabinduḥ sureśvaraḥ |

Names 285–291

Read →
032

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।

bhūtabhavyabhavannnāthaḥ pavanaḥ pāvano'nalaḥ |

Names 292–301

Read →
033

युगादिकृद्युगावर्तो नैकमायो महाशनः ।

yugādikṛdyugāvarto naikamāyo mahāśanaḥ |

Names 302–309

Read →
034

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।

iṣṭo'viśiṣṭaḥ śiṣṭeṣṭaḥ śikhaṇḍī nahuṣo vṛṣaḥ |

Names 310–319

Read →
035

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।

acyutaḥ prathitaḥ prāṇaḥ prāṇado vāsavānujaḥ |

Names 320–328

Read →
036

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।

skandaḥ skandadharo dhuryo varado vāyuvāhanaḥ |

Names 329–337

Read →
037

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।

aśokastāraṇastāraḥ śūraḥ śaurirjaneśvaraḥ |

Names 338–347

Read →
038

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।

padmanābho'ravindākṣaḥ padmagarbhaḥ śarīrabhṛt |

Names 348–356

Read →
039

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।

atulaḥ śarabho bhīmaḥ samayajño havirhariḥ |

Names 357–364

Read →
040

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ।

vikṣaro rohito mārgo heturdāmodaraḥ sahaḥ |

Names 365–374

Read →
041

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।

udbhavaḥ kṣobhaṇo devaḥ śrīgarbhaḥ parameśvaraḥ |

Names 375–385

Read →
042

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः ।

vyavasāyo vyavasthānaḥ saṃsthānaḥ sthānado dhruvaḥ |

Names 386–395

Read →
043

रामो विरामो विरजो मार्गो नेयो नयोऽनयः ।

rāmo virāmo virajo mārgo neyo nayo'nayaḥ |

Names 396–406

Read →
044

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।

vaikuṇṭhaḥ puruṣaḥ prāṇaḥ prāṇadaḥ praṇavaḥ pṛthuḥ |

Names 407–416

Read →
045

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।

ṛtuḥ sudarśanaḥ kālaḥ parameṣṭhī parigrahaḥ |

Names 417–426

Read →
046

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम् ।

vistāraḥ sthāvarasthāṇuḥ pramāṇaṃ bījamavyayam |

Names 427–435

Read →
047

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।

anirviṇṇaḥ sthaviṣṭho'bhūrdharmayūpo mahāmakhaḥ |

Names 436–445

Read →
048

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।

yajña ijyo mahejyaśca kratuḥ satraṃ satāṃ gatiḥ |

Names 446–455

Read →
049

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।

suvrataḥ sumukhaḥ sūkṣmaḥ sughoṣaḥ sukhadaḥ suhṛt |

Names 456–465

Read →
050

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।

svāpanaḥ svavaśo vyāpī naikātmā naikakarmakṛt |

Names 466–475

Read →
051

धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।

dharmagubdharmakṛddharmī sadasatkṣaramakṣaram |

Names 476–485

Read →
052

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः ।

gabhastinemiḥ sattvasthah siṃho bhūtamaheśvaraḥ |

Names 486–493

Read →
053

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।

uttaro gopatirgoptā jñānagamyaḥ purātanaḥ |

Names 494–502

Read →
054

सोमपोऽमृतपः सोमः पुरुजित्पुरुसत्तमः ।

somapo'mṛtapaḥ somaḥ purujitpurusattamaḥ |

Names 503–512

Read →
055

जीवो विनयिता साक्षी मुकुन्दोऽमितविक्रमः ।

jīvo vinayitā sākṣī mukundo'mitavikramaḥ |

Names 513–521

Read →
056

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।

ajo mahārhaḥ svābhāvyo jitāmitraḥ pramodanaḥ |

Names 522–531

Read →
057

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।

maharṣiḥ kapilācāryaḥ kṛtajño medinīpatiḥ |

Names 532–539

Read →
058

महावराहो गोविन्दः सुषेणः कनकाङ्गदी ।

mahāvarāho govindaḥ suṣeṇaḥ kanakāṅgadī |

Names 540–548

Read →
059

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः ।

vedhāḥ svāṅgo'jitaḥ kṛṣṇo dṛḍhaḥ saṅkarṣaṇo'cyutaḥ |

Names 549–560

Read →
060

भगवान् भगहाऽऽनन्दी वनमाली हलायुधः ।

bhagavān bhagahā''nandī vanamālī halāyudhaḥ |

Names 561–569

Read →
061

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।

sudhanvā khaṇḍaparaśurdāruṇo draviṇapradaḥ |

Names 570–577

Read →
062

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।

trisāmā sāmagaḥ sāma nirvāṇaṃ bheṣajaṃ bhiṣak |

Names 578–589

Read →
063

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।

śubhāṅgaḥ śāntidaḥ sraṣṭā kumudaḥ kuvalēśayaḥ |

Names 590–599

Read →
064

अनिवर्ती निवृत्तात्मा सङ्क्षेप्ता क्षेमकृच्छिवः ।

anivartī nivṛttātmā saṅkṣeptā kṣemakṛcchivaḥ |

Names 600–608

Read →
065

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।

śrīdaḥ śrīśaḥ śrīnivāsaḥ śrīnidhiḥ śrīvibhāvanaḥ |

Names 609–618

Read →
066

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः ।

svakṣaḥ svaṅgaḥ śatānando nandirjyotirgaṇeśvaraḥ |

Names 619–627

Read →
067

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।

udīrṇaḥ sarvataścakṣuranīśaḥ śāśvatasthiraḥ |

Names 628–636

Read →
068

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।

arciṣmānarcitaḥ kumbho viśuddhātmā viśodhanaḥ |

Names 637–645

Read →
069

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।

kālaneminihā vīraḥ śauriḥ śūrajaneśvaraḥ |

Names 646–654

Read →
070

कामदेवः कामपालः कामी कान्तः कृतागमः ।

kāmadevaḥ kāmapālaḥ kāmī kāntaḥ kṛtāgamaḥ |

Names 655–664

Read →
071

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।

brahmaṇyo brahmakṛd brahmā brahma brahmavivardhanaḥ |

Names 665–674

Read →
072

महाक्रमो महाकर्मा महातेजा महोरगः ।

mahākramo mahākarmā mahātejā mahoragaḥ |

Names 675–680

Read →
073

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।

stavyaḥ stavapriyaḥ stotraṃ stutiḥ stotā raṇapriyaḥ |

Names 681–691

Read →
074

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।

manojavastīrthakaro vasuretā vasupradaḥ |

Names 692–700

Read →
075

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।

sadgatiḥ satkṛtiḥ sattā sadbhūtiḥ satparāyaṇaḥ |

Names 701–709

Read →
076

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।

bhūtāvāso vāsudevaḥ sarvāsunilayo'nalaḥ |

Names 710–718

Read →
077

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान्।

viśvamūrtirmahāmūrtirdīptamūrtiramūrtimān |

Names 719–726

Read →
078

एको नैकः सवः कः किं यत्तत्पदमनुत्तमम्।

eko naikaḥ savaḥ kaḥ kiṃ yattatpadamanuttamam |

Names 727–738

Read →
079

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।

suvarṇavarṇo hemāṅgo varāṅgaścandanāṅgadī |

Names 739–748

Read →
080

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।

amānī mānado mānyo lokasvāmī trilokadhṛk |

Names 749–758

Read →
081

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।

tejovṛṣo dyutidharaḥ sarvaśastrabhṛtāṃ varaḥ |

Names 759–766

Read →
082

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।

caturmūrtiścaturbāhuścaturvyūhaścaturgatiḥ |

Names 767–774

Read →
083

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।

samāvarto'nivṛttātmā durjayo duratikramaḥ |

Names 775–783

Read →
084

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।

śubhāṅgo lokasāraṅgaḥ sutantustantuvardhanaḥ |

Names 784–791

Read →
085

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।

udbhavaḥ sundaraḥ sundo ratnanābhaḥ sulocanaḥ |

Names 792–801

Read →
086

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।

suvarṇabindur akṣobhyaḥ sarvavāgīśvareśvaraḥ |

Names 802–808

Read →
087

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः ।

kumudaḥ kundaraḥ kundaḥ parjanyaḥ pāvano'nilaḥ |

Names 809–818

Read →
088

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।

sulabhaḥ suvrataḥ siddhaḥ śatrujicChatrutāpanaḥ |

Names 819–827

Read →
089

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः ।

sahasrārciḥ saptajihvaḥ saptaidhāḥ saptavāhanaḥ |

Names 828–836

Read →
090

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्।

aṇurbṛhatkṛśaḥ sthūlo guṇabhṛnnirguṇo mahān |

Names 837–848

Read →
091

भारभृत्कथितो योगी योगीशः सर्वकामदः ।

bhārabhṛtkathito yogī yogīśaḥ sarvakāmadaḥ |

Names 849–858

Read →
092

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।

dhanurdharo dhanurvedo daṇḍo damayitā damaḥ |

Names 859–868

Read →
093

सत्त्ववान्सात्त्विकः सत्यः सत्यधर्मपरायणः ।

sattvavānsāttvikaḥ satyaḥ satyadharmaparāyaṇaḥ |

Names 869–877

Read →
094

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग्विभुः ।

vihāyasagatirjyotiḥ surucirhutabhugvibhuḥ |

Names 878–887

Read →
095

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।

ananto hutabhugbhoktā sukhado naikajo'grajaḥ |

Names 888–896

Read →
096

सनात्सनातनतमः कपिलः कपिरव्ययः ।

sanātsanātanatamaḥ kapilaḥ kapiravyayaḥ |

Names 897–906

Read →
097

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।

araudraḥ kuṇḍalī cakrī vikramyūrjitaśāsanaḥ |

Names 907–915

Read →
098

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणांवरः ।

akrūraḥ peśalo dakṣo dakṣiṇaḥ kṣamiṇāṃvaraḥ |

Names 916–923

Read →
099

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।

uttāraṇo duṣkṛtihā puṇyo duḥsvapnanāśanaḥ |

Names 924–932

Read →
100

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।

anantarūpo'nantaśrīrjitamanyurbhayāpahaḥ |

Names 933–941

Read →
101

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः ।

anādirbhūrbhuvo lakṣmīḥ suvīro rucirāṅgadaḥ |

Names 942–951

Read →
102

आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।

ādhāranilayo'dhātā puṣpahāsaḥ prajāgaraḥ |

Names 952–960

Read →
103

प्रमाणं प्राणनिलयः प्राणभृत्प्राणजीवनः ।

pramāṇaṃ prāṇanilayaḥ prāṇabhṛtprāṇajīvanaḥ |

Names 961–968

Read →
104

भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।

bhūrbhuvaḥsvastarustarāḥ savitā prapitāmahaḥ |

Names 969–977

Read →
105

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग्यज्ञसाधनः ।

yajñabhṛd yajñakṛd yajñī yajñabhugyajñasādhanaḥ |

Names 978–986

Read →
106

आत्मयोनिः स्वयञ्जातो वैखानः सामगायनः ।

ātmayoniḥ svayañjāto vaikhānaḥ sāmagāyanaḥ |

Names 987–994

Read →
107

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः ।

śaṅkhabhṛnnandakī cakrī śārṅgadhanvā gadādharaḥ |

Names 995–1000

Read →

About the Vishnu Sahasranama

The Vishnu Sahasranama is the most widely recited sahasranama in the Hindu tradition. It appears in the Mahabharata when Yudhishthira asks Bhishma: “What is the one supreme Deity? What is the highest goal? By praising whom, by worshipping whom, does a person attain good?” Bhishma responds with these 1000 names, declaring that reciting them with devotion leads to liberation from all sorrow.

Two major commentaries remain widely studied: Shankaracharya's Bhashya (Advaita reading) and Parashara Bhattar's Bhagavad Guna Darpanam (Vishishtadvaita reading). The rishi is Vyasa, the meter is Anushtup, and the deity is Sri Maha Vishnu. It is traditionally recited on Ekadashi, Saturdays, and as part of daily prayer. The Padma Purana commends Ekadashi recitation as especially meritorious for Vishnu devotion.